#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00202 Uniform title: makuṭāgama vīraśaiva rescension Main title: makuṭāgama vīraśaiva rescension kriyācaryāpāadau Description: With kind permission of ārādhya candraśekharasvāmī head of jaṃgamavāḍī māṭha vārāṇasī and president of the śaivabhāratī śodhapratiṣṭhāna kriyācaryāpādau Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: February 11, 2010 Publisher : śaivabhāratī śodhapratiṣṭhāna Publication year : 1994 Publication city : Publication country : India #################################################### प्रथमः पटलः कैलासशिखरावासः कालकालः कृपानिधिः | अपारमहिमाधारो महादेवो महेश्वरः || १ || अशेषजगदाधारं सर्वकारणकारणम् | आदिमध्यान्तरहितमप्रमेयमनाकुलम् || २ || असंख्याताद्भुताचिन्त्यस्वशक्तिपरिशोभितम् | परं शिवं समागम्य प्रणम्योवाच भक्तिमान् || ३ || रुद्र उवाच आदिदेव कृपासिन्धो पञ्चकृत्यपरायण | यतस्त्वं सर्वकर्ताऽसि सर्वज्ञः सर्वमप्यसि || ४ || अतः सर्वोपकाराय निगमागमसंहिताः | शब्दार्थमुख्या भवता निश्वासवदुदीरिताः || ५ || श्रीमन्मुखादधिगतं मकुटं मकुटायितम् | भगवन् श्रोतुकामोऽस्मि तदीयं भागमुत्तरम् || ६ || प्. २) उत्तमा यत्र कथ्यन्ते साक्षान्मोक्षप्रदायिनः | विशिष्टधर्मा इति हि शाम्भवव्रतधारिणाम् | उक्तं पुरस्ताद् भवता तदिदानीं निबोध मे || ७ || परशिव उवाच शृणुष्वावेदयिष्यामि रहस्यं मकुटोत्तरे | शाम्भवव्रतमाहात्म्यमाह्निकं व्रतिनामपि || ८ || अर्चाविशेषाः पूजोपकरणानां च साधनम् | तदन्त्येष्टिप्रकारश्च कथ्यन्ते ह्यत्र संग्रहात् || ९ || शाम्भवव्रताचरणम् तितीर्षुर्जन्मवाराशिं नानादुःखग्रहाकुलम् | वेदागमान्तविदितं शाम्भवव्रतमाचरेत् || १० || प्. ३) तनुत्रयगतानादिमलत्रयविशोधनाः | लिङ्गत्रयानुसन्धानविशोषितभवाब्धयः || ११ || कल्याणदेशिककृपाकर्तिताशेषबन्धनाः | भक्तिदूतीसमानीतमुक्तिकान्तासमागमाः || १२ || ज्ञानसूर्योदयकृततमःकूटविपाटनाः | वेधामनुक्रियादीक्षा यत्र ह्यन्तर्गताः पराः || १३ || शिरोव्रतं महागुह्यमिदं तेनैव लभ्यते | यः कर्मसाम्यसंगत्या न पुनर्जन्मभाग्भवेत् || १४ || मोक्षशाम्भवव्रतयोः साध्यसाधनात्मकत्वम् अमृतत्वं यदा रुद्र विषेण लभते जनः | व्रतमेतद् विहायाथ दुःखस्यान्तं समेष्यति || १५ || प्. ४) न मामधन्यो यजते नाधन्यो मोक्षमिच्छति | नाप्यधन्यः समाप्नोति शाम्भवव्रतमुत्तमम् || १६ || शाम्भवव्रतहीनः केवलः पशुः यः सर्वशास्त्रविदपि कर्मयोगरतोऽपि च | शाम्भवव्रतहीनोऽयं प्रोच्यते केवलः पशुः || १७ || शाम्भवव्रतमाहात्म्ये योऽर्थवादं हि मन्यते | स सर्वयातनाभोगी भवत्येव न संशयः || १८ || इति श्रीमकुटागमे क्रियापादे शाम्भवव्रतमाहात्म्यनिरूपणं नाम प्रथमः पटलः || १ || द्वितीयः पटलः रुद्र उवाच परमेश्वर सर्वात्मन् परिपूर्णगुणाम्बुधे | शाम्भवानामनुष्ठेयमाह्निकं सङ्गिरस्व मे || १ || परशिव उवाच आह्निकं तु प्रवक्ष्यामि शाम्भवानामनुत्तमम् | शृणुष्वावहितो भूत्वा भवपाशनिकृन्तनम् || २ || प्रातःकृत्यानि बुद्ध्यमानो हि मद्भक्तो मुहूर्ते ब्रह्मसम्मिते | संस्मरन् मामिष्टलिङ्गं कराभ्यां स्पर्शयेद् दृशोः || धर्मार्थावनुचिन्त्याथ माहेशान् प्रणमेदपि || ३ || व्रतिनं सत्रिणं दान्तं भक्तं लिङ्गाङ्गसङ्गिनम् | प्रातःकाले तु यः पश्येत् स ईप्सितमवाप्नुयात् || ४ || पाषण्डं पतितं क्रूरमभक्तं देवनिन्दकम् | प्रातरुत्थाय यः पश्येत् सोऽनिष्टं समवाप्नुयात् || ५ || प्. ६) शौचविधिः बहिर्गच्छेदपि ततो दूरादावसथाद् बुधः | उपवीतं लिङ्गसूत्रं पृष्ठतः कण्ठलम्बितम् | कृत्वा प्रावृत्य च शिरो विण्मूत्रोत्सर्गमाचरेत् || ६ || ततो यावन्मनःशुद्धिर्मृत्स्नया च जलेन च | शौचं कुर्यात् प्रयत्नेन शौचहीनो पतत्यधः || ७ || प्रक्षालिताङ्घ्रिपाणिश्च गण्डूषान् विसृजेदपि | आत्मविद्याशिवाख्यानि तत्त्वानि स्वाहया सह | आचामेदुच्चरन्नेवं त्रिवारं शाम्भवव्रती || ८ || प्. ७) दन्तधावनस्नानादिविधानम् तत आम्रादिभिः काष्ठैर्दन्तधावनमाचरेत् | प्रक्षाल्य च मुखं धीमानाचम्य च ततः परम् | शिवतीर्थं विधायाथ प्रातःस्नानं समाचरेत् || ९ || संकल्पः सूक्तपठनं मार्जनं चाघमर्षणम् | देवतातर्पणं चैव स्नानपञ्चाङ्गमुच्यते || १० || अप्रवाहोदकस्नानं विप्रपादावनेजनम् | गायत्रीजपमर्घ्यं च आदित्याभिमुखश्चरेत् | देवर्षितर्पणं कुर्याद् यक्ष्माणमपि तर्पयेत् || ११ || ततो धौते परीदध्याद् वाससी भानुदर्शिते | आचम्य चैव संकल्प्य भस्मस्नानं समाचरेत् || १२ || भस्मस्नानत्रिपुण्ड्रधारणादिकम् शिवाग्निजनितेनाथ यथाकल्पार्जितेन वा | प्. ८) उद्धूल्य चैव सर्वाङ्गं भस्मना चावगुण्ठ्य च | द्वात्रिंशत्सु प्रदेशेषु त्रिपुण्ड्रं धारयेत् क्रमात् || १३ || उत्तमाङ्गे ललाटे च कर्णयोर्नेत्रयोर्द्वयोः | नासावक्त्रगलेष्वेवमंसद्वयमनन्तरम् || १४ || कूर्परे मणिबन्धे च हृदये पार्श्वयोर्द्वयोः | नाभौ गुह्यद्वये चैव ऊर्वोः स्फिग्बिम्बजानुषु || १५ || जङ्घाद्वये पादयोश्च द्वात्रिंशत् स्थानमुत्तमम् | ततः पुनश्च संकल्प्य रुद्राक्षान् बिभृयान्नरः || १६ || रुद्राक्षधारणम् शिखायामेकरुद्राक्षं त्रिंशत्तु शिरसा वहेत् | षट्त्रिंशत्तु गले दद्याद् बाह्वोः षोडश षोडश || १७ || द्वादश मणिबन्धेऽपि स्कन्धे पञ्चशतं वहेत् | अष्टोत्तरशतैर्मालां जपयज्ञे प्रकल्पयेत् | सुप्ते पीते सदा कालं रुद्राक्षान् बिभृयान्नरः || १८ || प्. ९) त्रिशतं त्वधमं पञ्चशतं मध्यममुच्यते | सहस्रमुत्तमं प्रोक्तमेवं भेदेन धारयेत् || १९ || शिरसीशानमन्त्रेण मुखे तत्पुरुषेण तु | अघोरेण गले धार्यं तेनैव हृदयेऽपि च || २० || अघोराख्येन मन्त्रेण करयोर्धारयेत् सुधीः | पञ्चाशदक्षसहितां व्योमव्यापीति चोदरे || २१ || पञ्चब्रह्मभिरङ्गैश्च त्रिमालाः पञ्च सप्त च | अथवा मूलमन्त्रेण सर्वाण्यक्षाणि धारयेत् || २२ || सूर्यार्घ्यदानं गायत्रीजपः ततो मद्वपुषे सूर्यायार्घ्यत्रितयमर्पयेत् | अथ मद्देवतां देवीं सावित्रीं प्रयतो जपेत् || २३ || प्. १०) शिवाग्निसप्तजिह्वोपासनम् घोरां मम तनुं वह्निं समुपासीत संयतः | सुवर्णा कनका रक्ता कृष्णा चैव तु सुप्रभा | बहुरूपाऽतिरक्ता च सप्त जिह्वाः प्रकीर्तिताः || २४ || सुवर्णा वारुणी जिह्वा कनका मध्यमा स्मृता | रक्ता चैवोत्तरा जिह्वा कृष्णा याम्यदिशि स्थिता || २५ || सुप्रभा पूर्वदिग्जिह्वा अतिरक्ताऽग्निगोचरा | ऐशानी बहुरूपा च जिह्वास्थानान्यनुक्रमात् || २६ || विवाहे वारुणी जिह्वा मध्यमा यज्ञकर्मसु | उत्तरा चोपनयने दक्षिणा पितृकर्मसु || २७ || पूर्वदिक् सर्वकाम्येषु आग्नेयी शान्तिकर्मसु | ऐशानी चोग्रकार्येषु सदा होमस्य शस्यते || २८ || पञ्चवक्त्रयुतं रक्तं सप्तजिह्वाविराजितम् | दशहस्तं त्रिनेत्रं च सर्वाभरणभूषितम् || २९ || प्. ११) रक्तवस्त्रपरीधानं पङ्कजोपरि संस्थितम् | बद्धपद्मासनासीनं दशायुधसमन्वितम् || ३० || कनका बहुरूपा चातिरक्ता तु ततः परम् | सुप्रभा चैव कृष्णा च रक्ता चान्या हिरण्मयी || ३१ || ऊर्ध्ववक्त्रे स्थितास्तिस्रः शेषाः प्रागादिदिक्स्थिताः | शिवाग्निमेवं ध्यात्वैव सायंप्रातर्हुनेद् बुधः || ३२ || गुरुशरणागतिः अग्निकार्यं विधायाथ कर्तव्यमभिवादनम् | शरणागतिस्तु कर्तव्या गुर्वादिभ्यो यथा शृणु || ३३ || दक्षहस्तेन संगृह्य निश्चलो लिङ्गपेटिकाम् | पादाङ्गुष्ठौ गुरोः सव्यहस्तेन परिगृह्य च | संस्पर्शयन्नेत्रयोस्त्रिर्गुर्वादीन् शरणं व्रजेत् || ३४ || प्. १२) दिवसद्वितीयतृतीयचतुर्थभागकृत्यानि एभिश्चाष्टांशकमह आद्यमेवं समापयेत् | द्वितीये च तथा भागे ह्यभ्यसेन्निगमागमान् | जपेदध्यापयेच्चाथ शास्त्राण्यपि विचारयेत् || ३५ || समित्पुष्पकुशादीनि यथा लाभमुपाहरेत् | भागे यतेत तार्तीये पोष्यवर्गार्थसिद्धये || ३६ || भागे त्वथ चतुर्थे तु स्नानार्थं मृदमाहरेत् | शिवतीर्थं विधायाथ मध्याह्नस्नानमाचरेत् || ३७ || मध्याह्नस्नानसन्ध्योपासनम् भस्मस्नानं विधायाथ त्रिपुण्ड्रमपि धारयेत् | माध्याह्निक्यौ तथा सन्ध्ये निर्वर्त्य च यथाविधि | अथ पञ्च महायज्ञाः कर्तव्या गृहिणाऽन्वहम् || ३८ || प्. १३) देवान् ऋषींस्तद्गणांश्च तर्पयित्वा यथाक्रमम् | पितॄन् दिव्यानदिव्यांश्च तर्पयेत् पितृतीर्थतः | वैश्वदेवं तु निर्वर्त्य पूजां माध्याह्निकीं चरेत् || ३९ || मध्याह्नपूजाभेदाः महतीं वा गुरुं वापि लघ्वीं वा यतचेतनः | कालेषु षट्सु पूज्योऽहं त्रिसन्ध्यमथवा पुनः || ४० || अभोजने विनिर्दिष्टाऽवसरा त्वन्यदा परा | षट्स्थलोक्तविधानेन महापूजां समाचरेत् || ४१ || भस्मशययाञ्चिते वामकरपीठेऽभिमन्त्रिते | इष्टलिङ्गं सुविन्यस्य उत्तरास्याभिसम्मुखः | पूजयेद् अवधानेन भावनापूर्णसाधनः || ४२ || प्. १४) पण्डितं वाऽथ मूर्खं वाऽतिथिं पूजान्त आगतम् | मामेव मत्वा सम्पूज्य तोषयेन्मतिमान् नरः || ४३ || भुञ्जानोऽपि हि मां ध्यायेद् वाचा संकीर्तयेदपि | न विद्यते तदाशौचं पवित्रः सर्वदाऽस्म्यहम् || ४४ || उपभुज्य प्रसादं मे ततो माहेश्वरोऽन्वहम् | मुखं करं च प्रक्षाल्य द्विराचम्येक्षणे स्पृशेत् || ४५ || स्तोत्राण्यपि पठन्नेवं तदन्नं परिणामयेत् | ततश्चासायमपि च साधयेदर्थमात्मनः || ४६ || सायंसन्ध्योपासनम् निर्वर्त्य स्नानमाग्नेयं सायं तु प्रयतः शुचिः | उपास्य पश्चिमे सन्ध्ये होमकार्यं विधाय च || ४७ || सायन्तनीमवसरां वैश्वदेवं समाचरेत् | अथार्धरात्रिकीं पूजां निर्वर्त्यातिथिमर्चयेत् || ४८ || प्. १५) रात्रिशयनक्रमः ततः शययां सुखकरीमधिशयय शुचिस्तु माम् | ध्यायन् शयीत च सुखमुत्सृष्टाखिलचिन्तनः || ४९ || उक्तं मया कृत्यजातमाह्निकं मत्पदप्रदम् | ये नरा नानुतिष्ठन्ति ते यान्ति नरकान् बहून् || ५० || इति श्रीमकुटागमे क्रियापादे आह्निकविधिनिरूपणं नाम द्वितीयः पटलः || २ || तृतीयः पटलः रुद्र उवाच अप्रमेयगुणाधार जगदाधार शाश्वत | अर्चाविशेषानधुना निबोधय महागुरो || १ || परशिव उवाच शृणु रुद्र प्रवक्ष्यामि पूजाभेदाननुत्तमान् | पूजा हि त्रिविधा प्रोक्ता गुर्वी च महती लघुः || २ || त्रिविधा पूजा महतीमुत्तमः कुर्याद् गुर्वीं मध्यम एव च | लघ्वीमशक्तः कुर्याच्च सायंमध्याह्नकालयोः || ३ || अभोजने ह्यवसरा नियता प्रातरादिषु | षट्कालमर्चनां कुर्यात् त्रिकालमथवा बुधः || ४ || मण्डलविधानम् पद्मं त्ववसराख्यायां नवपद्मं लघौ स्मृतम् | गुर्व्यां महत्यामपि च भद्रं तत्त्वं हि मण्डलम् || ५ || प्. १७) वर्तिकासंख्या तिस्रस्त्ववसरायां स्युर्वर्तिका विहिताः किल | लघ्व्यां नव द्वादश वा ताः पुनः सम्प्रकीर्तिताः | षट्त्रिंशदष्टादश वा गुर्वर्चायां समीरिताः || ६ || अष्टोत्तरशतं वापि त्रिशतं वा सहस्रकम् | गुर्व्यां महत्यामपि च वर्तिका ज्वालयेदपि || ७ || दीपाराधनम् लघ्व्यामवसरायां वा दीप एकः समीरितः | चत्वारो वा तथा द्वौ वा महत्यां च गुरावपि || ८ || जपसंख्याविधानम् लघ्व्यामवसरायां चाप्यष्टोत्तरशतं जपेत् | गुर्व्यां महत्यामपि च मूलं दशशतं जपेत् || ९ || नीराजनम् दर्शनं त्ववसराभिख्यमुत्तराभिख्यमित्यपि | नीराजनत्रयं प्रोक्तमवसरायां महामते || १० || दर्शनाख्यावसराख्यं मज्जनाभिख्यमित्यपि | माङ्गल्याख्यं च कर्पूरं शृङ्गाराख्यं महाभिधम् || ११ || प्. १८) आनन्दाख्यमसंख्यातं नवनीराजनानि तु | लघ्वर्चनायामेतानि कीर्तितानि भवन्ति हि || १२ || सानुरागं च ताम्बूलाभिख्यं पूर्वोदितैः सह | एकादश महत्यां च गुर्व्यां नीराजनानि हि || १३ || अप्रदीप्यैव दीपं तु न च संकल्पमाचरेत् | रङ्गवल्लीं प्रदीपं च गन्धाद्यैरभिपूजयेत् || १४ || नैवेद्यम् अवसरायामवसरं निवेद्यं सम्प्रकीर्तितम् | महानिवेदनं कार्यं लघ्व्यादिषु महामते || १५ || महानिवेद्यं तत्प्रोक्तं क्षुच्छान्तिकरणक्षमम् | निवेद्यमवसरं तद्धि क्षुच्छान्त्यनुपयोगि यत् || १६ || इति श्रीमकुटागमे क्रियापादेऽर्चाविशेषविधिनिरूपणं नाम तृतीयः पटलः || ३ || चतुर्थः पटलः रुद्र उवाच अचिन्त्यमहिमाधार कृपाकूपार शङ्कर | पूजोपयुक्तद्रव्याणां साधनं ब्रूहि मेऽधुना || १ || परशिव उवाच पञ्चामृतादिनाऽभिषेकः कर्तव्यः मधु गव्यं दधि क्षीरं घृतं शर्करया समम् | अभिषेकाय शस्तं स्याच्छुद्धोदकमनुत्तमम् || २ || एलोशीरलवङ्गानि कस्तूरी चन्द्रकं तथा | पञ्चद्रव्याणि वा चन्द्रं कस्तूरी कुङ्कुमं तु वा | अभिषेकजले योज्यमेलोशीरयुगं तु वा || ३ || चन्दनम् रोचनं कुङ्कुमं चैला कर्पूरं कोष्ठमेव च | कृष्णागरुश्च कस्तूरी समचन्दनसंयुतम् || ४ || प्. २०) क्षोदो वा विल्वखण्डस्य कृतमालस्य वा तथा | गन्धो वा देवदारोश्च मम प्रियकराः स्मृताः || ५ || पुष्पाणि द्रोणं वकं च पुन्नागं तथा मन्दारपुष्पकम् | नन्द्यावर्तं श्रियावर्तं करवीरार्कके तथा || ६ || शतपत्रं कुवलयं लोध्रं धत्तूरमेव च | पाटलं चम्पकं विल्वं तमालं कर्णिकारकम् || ७ || मातुलुङ्गमुनी चैव प्रियङ्गुर्देवदारुकम् | कृतमालाग्निमन्थौ च मालती मल्लिका तथा || ८ || निर्गुण्डी च विकर्णी च बहुपर्णी तथाऽजिता | कह्लारमतसीपुष्पं कुसुम्भं कमलं तथा | शस्तानि मम पूजायां तस्मात् तैर्मां सुपूजयेत् || ९ || सात्त्विक - राजस - तामसपुष्पाणि शुभ्रवर्णानि पुष्पाणि सात्त्विकानि भवन्ति हि | तानि मुक्तिप्रदानि स्युर्भक्तानां मह्यमर्पणात् || १० || राजसान्यरुणान्येवं प्रदद्युर्भोगमीप्सितम् | मिश्राणि पीतवर्णानि भुक्तिमुक्तिप्रदानि हि | पुत्रपौत्रसुवर्णादिसर्वाभीष्टप्रदानि च || ११ || प्. २१) कृष्णानि तामसानि स्युर्विना नीलोत्पलं भुवि | वर्जनीयानि यत्नेन न तैर्मामर्चयेज्जनः || १२ || कालभेदेन प्रशस्तानि पुष्पाणि नन्द्यावर्तं श्रियावर्तं श्वेतार्कं श्वेतपङ्कजम् | लक्ष्मीपाटलपुन्नागा मालती शङ्खिनी तथा || १३ || पलाशाशोकबकुलरक्तागस्त्यसुमानि च | प्रातःकालिकपूजायां प्रशस्तानि भवन्ति हि || १४ || कृतमालं च धत्तूरं करवीरं च द्रोणकम् | चम्पकं पाटलं चैव कमलं चोत्पलं तथा | मध्याह्नकालपूजायां प्रशस्तानि स्मृतानि हि || १५ || जातिर्नीलोत्पलं चैव कदम्बं केतकी तथा | स्थलपद्मं च पूगं च नागदन्तिसुमं तथा | अर्धरात्रिकपूजायां प्रशस्तानि भवन्ति हि || १६ || कनकं च कदम्बं च केतकी जातिरेव च | अर्धरात्रेऽर्पणीयानि नान्यथा भक्तितत्परैः || १७ || पारिजातं प्रातरेव सायं स्याच्चन्द्रकान्तकम् | मध्याह्न एव युक्ता स्यान्नित्यं मध्याह्नमल्लिका || १८ || प्. २२) त्रिकालमल्लिका चैव कनकाम्बरमेव च | द्रोणं च विल्वपत्रं च प्रशस्तानि हि सर्वदा || १९ || वर्ज्यानि ग्राह्याणि च पुष्पाणि यूथिका मदयन्ती च माधवी च शिरीषकम् | बन्धूकं सर्जकं चैव विभीतं कुन्दमेव च || २० || लाङ्गली दाडिमं दीप्तं निम्बं कार्पासमेव च | कूष्माण्डं शाल्मली चैव मत्स्याक्षी शिग्रुपुष्पकम् || २१ || श्रीकर्णं च कपित्थं च तिन्त्रिणीकुसुमं तथा | सर्वदा वर्जनीयानि मदनुग्रहकाङ्क्षिभिः || २२ || विल्वारग्वधदूर्वापामार्गं चम्पकपत्रकम् | जम्बूकदम्बदमनद्रोणमरुवकपत्रकम् || २३ || शङ्खिनीपद्मह्रीबेरसिन्धुवारादिपत्रकम् | शस्तं स्यान्मम पूजायामेतैर्मां सम्यगर्चयेत् || २४ || विल्वपत्रं तु कथितं सर्वपत्रोत्तमोत्तमम् | नीलोत्पलं च पुष्पेषु करवीरं विशिष्यते | द्रोणमारग्वधं चैव सर्वपुष्पोत्तमोत्तमम् || २५ || प्. २३) सौवर्णानि पत्रपुष्पाणि पुष्पपत्रैस्तु सौवर्णैरष्टोत्तरशतेन वा | पञ्चाशता वा सम्पूज्य चानन्तफलमश्नुते || २६ || नास्ति निर्माल्यतादोषः सौवर्णेषु सुमेष्वपि | पत्रेषु च ततस्तैस्तु भक्तो नित्यं समर्चयेत् || २७ || सौवर्णपत्रपुष्पाणां तथा विल्वदलस्य च | न पर्युषितता तस्मात् तानि संगृह्य पूजयेत् || २८ || विविधधूपसम्पादनम् धूपसम्पादनं वक्ष्ये शृणुष्वावहितः पुनः | कर्पूरागरुतक्कोलजातीफललवङ्गकम् || २९ || जटामांसी च सिंही च मुस्ता चन्दनमेव च | घृतमिश्रमिदं प्रोक्तं दशाङ्गं सुमनोहरम् || ३० || चन्दनागरुकर्पूरकस्तूरं कुङ्कुमं तथा | तक्कोलैला नागपुष्पं लवङ्गत्वक् तथैव च | यक्षकर्दममेतद्धि मम प्रीतिकरं स्मृतम् || ३१ || चन्दनागरुकर्पूरलवङ्गत्वक् च सिंहकम् | एला तथा जटामांसी प्राजापत्याभिधं स्मृतम् || ३२ || प्. २४) चन्दनागरुकर्पूरं कस्तूरतिलकं तथा | लवङ्गं हसिता मुस्ता विजयाख्यं प्रकीर्तितम् || ३३ || कर्पूरकृष्णागरु च ह्नीबेरं कुङ्कुमं तथा | कोष्ठं तथा चन्दनं च क्रमवृद्धियुतं यथा || ३४ || एकद्वित्रिचतुःपञ्चषड्भागं मधुमिश्रितम् | शीतारिसंज्ञितमिदं मम प्रीतिकरं स्मृतम् || ३५ || चन्दनागरुकर्पूरसिंहीसर्जरसांस्तथा | कोष्ठं मुस्तां च सञ्चूर्ण्य विजयाख्येन योजितम् | कर्पूरकल्याणमिति कीर्तितं मुक्तिसाधनम् || ३६ || चन्दनागरुकस्तूरीमुस्तासिंहकचूर्णकम् | अमृताख्यमिति प्रोक्तममृतत्वप्रदायकम् || ३७ || तक्कोलपूगकर्पूरजातीफललवङ्गकम् | सुगन्धसंज्ञितमिदं भोगमोक्षप्रदं मतम् || ३८ || गुग्गुलुः केवलं सप्तजन्मपापविनाशकः | तथा चन्दनधूपोऽपि सर्वाघौघनिषूदनः | एवं सौगन्धिको धूपः सर्वकामार्थसाधकः || ३९ || प्. २५) अथ श्वेतागरोर्धूपः केवलं मुक्तिदायकः | साज्यगुग्गुलुधूपस्तु महाभोगप्रदायकः || ४० || तमालचूर्णसहितो महिषाक्षस्य धूपकः | मम प्रीतिकरस्तस्माद् मत्सायुज्यप्रदायकः || ४१ || दीपसम्पादनम् दीपसम्पादनं वक्ष्ये संशृणुष्वावधानतः | उत्तमं गोघृतं प्रोक्तं मध्यमं महिषीघृतम् | अधमं तिलतैलं स्यादीशस्यान्तकसूदन || ४२ || निम्बैरण्डकरञ्जानां तैलं यत्पूतिगन्धि च | नोपयोज्यमिदं पुत्र मद्दीपाय कदाचन || ४३ || न दीपमप्रज्वाल्यैव शुभकर्म समाचरेत् | दैवं पैतृकमप्येवमन्यथा विफलं भवेत् || ४४ || पञ्चसूत्रलिङ्गलक्षणम् शृणुष्वावहितः पुत्र वक्ष्ये लिङ्गस्य लक्षणम् | प्. २६) स्फाटिकादीनि लिङ्गानि शक्तियुक्तानि चार्पयेत् | पञ्चसूत्रात्मकं लिङ्गं पूजयेदिष्टसिद्धये || ४५ || लिङ्गवृत्तसमं पीठं दीर्घं विस्तारमुन्नतम् | तदर्धं गोमुखं चैव पञ्चसूत्रं प्रकीर्तितम् || ४६ || शिवाधिक्ये भवेन्मृत्युः शक्त्याधिक्ये धनक्षयः | शिवशक्तिसमं लिङ्गं भुक्तिमुक्तिफलप्रदम् || ४७ || न न्यूनमर्धाङ्गुलतोऽधिकं नाङ्गुलमानतः | पञ्चसूत्रसमायुक्तमिष्टलिङ्गं धरेत् सदा || ४८ || इष्टलिङ्गे कलापूर्णे गुरुदत्ते महोत्तमे | न लक्षणं परीक्षेत गुरुणा पावितं यतः || ४९ || प्. २७) भक्तः स्वशक्त्यानुगुणार्जितं पुष्पं फलं तथा | मनसा सर्वसामग्रीं परिपूर्णां विभावयेत् || ५० || भक्त्यैव परिपूर्णा या सा पूजा सफला भवेत् | सर्वमुक्तं समासेन किमतः श्रोतुमिच्छसि || ५१ || इति श्रीमकुटागमे क्रियापादे पूजोपकरणसम्पादनं नाम चतुर्थः पटलः || ४ || पञ्चमः पटलः रुद्र उवाच आवाहनं कथं देव तव सर्वगतस्य तु | संस्थापनं कथं नु स्यात् सन्निधानं कथं प्रभो | कस्मिन् मुखे समर्प्यं स्यान्नैवेद्यं ते वदस्व मे || १ || अभोज्यं भोज्यमिति च कथ्यते ते निवेदितम् | भोज्यं केषामभोज्यं च केषां स्यात् तद्विवेचय || २ || परशिव उवाच आवाहनम् देशान्तरप्राप्तिरूपावाहनं व्यापकस्य मे | न सम्भवेत् तथापि स्यात् कर्तुर्भावनया परम् || ३ || लिङ्गाद्यभिमते देशे यदभिव्यञ्जनं मम | तदेवावाहनमिति भावयस्व महामते || ४ || संस्थापनम् लिङ्गबेराद्यभिमतसदाशिवहृदम्बुजे | ममावस्थापनं यत्तत् संस्थापनमितीर्यते || ५ || प्. २९) संनिधान-संनिरोध-अवगुण्ठन-सकलीकरणानि सन्निधानमिति प्रोक्तमात्मनोऽभिमुखीकृतिः | आपूजान्तं सन्निधानप्रार्थनं सन्निरोधनम् || ६ || कवचेनाच्छादनं तु यत्तदेवावगुण्ठनम् | हृदयादिन्यास एव सकलीकरणं मतम् || ७ || अमृतीकरणम् पञ्चानां हृदयादीनां नानावर्णयुजामपि | मद्वर्णतानुसन्धानममृतीकरणं हि तत् || ८ || देवस्य कथं कुत्राभिमुखता स्थण्डिले चरलिङ्गे च साधकाभिमुखोऽस्म्यहम् | प्रत्यग्वक्त्रस्तु कुम्भादौ स्थिरे द्वाराभिसम्मुखः || ९ || प्. ३०) पञ्चवक्त्रपूजाप्रकारः प्रपत्तव्यं भोगमोक्षकामैर्मे दक्षिणं मुखम् | तस्मात् तदाभिमुख्येन कार्यं हि मम पूजनम् || १० || बाहुहृद्गुह्यचरणैः साकमूर्ध्वमुखं मम | आत्मनोऽभिमुखत्वेन प्रकल्प्यैव समर्चयेत् || ११ || भक्ष्यभोज्यान्नपानादि लेह्यं चोष्यमनेकधा | ऊर्ध्ववक्त्रे प्रदातव्यं यत्किञ्चिदिह चोदितम् || १२ || आचारलिङ्गादीनां स्थितिः पञ्चवक्त्रेषु नैवेद्यस्यार्पणं तद्विशिष्यते | सद्योजातः किलाचारो वामदेवो गुरुः स्मृतः || १३ || अघोरस्तु शिवः प्रोक्तश्चरस्तत्पुरुषो भवेत् | ईशानस्तु प्रसादः स्याद्विशिष्टस्तु महानहम् || १४ || प्. ३१) प्रसादग्रहणम् तस्मादनुदिनं भक्तः सर्वं भोज्यं च सर्वदा | षड्लिङ्गेभ्यः समर्प्यैव गृह्णीयादवधानतः || १५ || निर्माल्यविचारः मदीयभुक्तं निर्माल्यं भोज्यं चैव चतुर्विधम् | धर्ममर्थं च कामं च मोक्षं च ददते क्रमात् || १६ || निर्माल्यं निर्मलं शुद्धं निर्मलत्वादनिन्दितम् | तस्मादभोज्यं निर्माल्यमशुद्धैरशिवात्मकैः || १७ || अशुद्धात्मा शुद्धिलोभान्मद्भुक्तं पावनं परम् | भक्षयन्नाशमाप्नोति रसभोक्ता यथा द्विजः || १८ || जिह्वाचापल्यसंयुक्तः शैवसंस्कारवर्जितः | शैवनिर्माल्यभोजी चेद् रौरवं नरकं व्रजेत् || १९ || मल्लिङ्गधारिणो लोके देशिका मत्परायणाः | मदेकशरणास्तेषु योग्यं नैवान्यजन्तुषु || २० || प्. ३२) चण्डो नाधिकृतः चण्डभोज्यं दुराधर्षं नान्यभोगाय कल्पितम् | बाणलिङ्गे चरे लोहे रत्नलिङ्गे स्वयम्भुवि | प्रतिमासु च सर्वासु न चण्डोऽधिकृतो भवेत् || २१ || असमर्प्य ग्रहणे दोषः स्वेष्टलिङ्गे च यद्दत्तं चरुकं तन्न संशयः | पत्रं पुष्पं फलं तोयमन्नपानाद्यमौषधम् | आपद्यपि न भुञ्जीत यन्मह्यमसमर्पितम् || २२ || निवेदितभोजने सायुज्यप्राप्तिः मत्पूजापरमो नित्यं मन्निवेदितभोजनः | मद्ध्यानपरमो योगी मत्सायुज्याय कल्पते || २३ || इति श्रीमकुटागमे क्रियापादे आवाहनादिविधिकथनं नाम पञ्चमः पटलः || ५ || क्रियापादश्च समाप्तः चर्यापादे प्रथमः पटलः कैलासवासी भगवान् महादेवो महेश्वरः | महाकैलासनिलयं महाकारुणिकोत्तमम् || १ || पञ्चपञ्चमुखं देवं पञ्चाशद्भुजमण्डितम् | पञ्चब्रह्ममयं शान्तं पञ्चकृत्यपरायणम् || २ || परं शिवं समालोक्य प्रणम्य विनयान्वितः | पप्रच्छैवं कृपाविष्टो लोकानुग्रहकाङ्क्षया || ३ || रुद्र उवाच अशेषजगदाधार निराधार परात्पर | सर्वतत्त्वादिभूत श्रीदेवदेव नमोऽस्तु ते || ४ || श्रीमद्दिव्यागमान्तेषु निगमान्तेषु च स्फुटम् | शाम्भवव्रतमादिष्टं भवता शीघ्रमुक्तिदम् || ५ || प्. ३४) ये द्विजास्तदनुष्ठानतत्परा लिङ्गधारिणः | अवसानविधिं ब्रूहि तेषां सद्भक्तियोगिनाम् || ६ || परशिव उवाच साधु पृष्टं त्वया वत्स भक्तलोकोद्दिधीर्षुणा | शृणु वक्ष्यामि भक्तानामवसानविधिं परम् || ७ || शाम्भवव्रतनिष्ठानामवसानविधिः येनैव संस्कृतः शीघ्रं दीक्षितो मुक्तिमाप्नुयात् | येनैव संस्कृतः शीघ्रं दीक्षासाफल्यमश्नुते | येनैव संस्कृतो यायादभक्तोऽपि परां गतिम् || ८ || शाम्भवव्रतनिष्ठानामिष्टलिङ्गाङ्गसङ्गिनाम् | कथितो मत्पदावाप्त्यै शिवमेधविधिः श्रुतौ || ९ || प्. ३५) शिवमेधशब्दनिर्वचनम् शिवे मयि प्रविष्टानां मेध आराधनात्मकः | शिवमेध इति ख्यातः करणीयो मुमुक्षुभिः | विशिष्टः पितृमेधोऽयं शिवमेध इति स्मृतः || १० || भक्तिज्ञानविहीनोऽपि शिवपदं प्राप्नोति सर्वस्य प्रतिशिवेति भूमिस्तोयस्य इत्यपि | श्रुतयो विदधत्येव समाधिं भक्तियोगिनाम् || ११ || भक्त्या ज्ञानेन हीनोऽपि युक्तोऽपि महतैनसा | सोऽपि मत्पदमागच्छेच्छिवमेधेन संस्कृतः || १२ || मद्भक्तौ च मदर्चायां मज्ज्ञाने शाम्भवव्रते | यो मुक्तिसिद्धिं सन्दिग्धे स ध्रुवं नरकं व्रजेत् || १३ || शाम्भवीये व्रते चैव तदन्त्येष्टिविधावपि | अविश्वासपरो मूर्खो नरकान्नहि निःसरेत् || १४ || लिङ्गाङ्गिदेहदहने दोषः शाम्भवव्रतिनो देहं दहेद् यो मूढचेतनः | नरके दह्यते सोऽयं सर्वदा यमकिङ्करैः || १५ || प्. ३६) मद्भक्तानां मुमुक्षूणां संस्कारायैव देहिनाम् | पितृमेधे समाख्यातः समाधिविधिरुत्तमः || १६ || नृणां कर्मैकसक्तानां पुनरावृत्तिशालिनाम् | दहनोपस्कृतः प्रोक्तो ह्यवसानविधिर्मया || १७ || लिङ्गाङ्गसङ्गिनां वत्स चानावृत्तियुजां सताम् | समाध्युपस्कृतः प्रोक्तो ह्यवसानविधिः परः || १८ || ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिस्तु वा | चीर्णव्रतो यदि मृतस्तस्य देहं न दाहयेत् || १९ || शाम्भवव्रतनिष्ठानां प्रेतत्वं नास्ति शाम्भवव्रतनिष्ठानां प्रेतत्वं नहि विद्यते | प्रेतत्वेन विमुक्तस्य कर्मलोपो न शङ्क्यते || २० || अपसव्यादिनिषेधः लिङ्गभावयुजामेषामपसव्यं न युज्यते | अतः प्रेतक्रियाः सर्वाः शाम्भवेषु न योजयेत् || २१ || प्. ३७) वीरशैवानां समाधिसंस्कारः समाधिर्मोक्षधर्मोऽयं सर्वधर्मापवादकः | समाधिसंस्कृते तस्माद्धर्मलोपो न शङ्क्यते || २२ || समाधिसंस्क्रिया साक्षान्मत्सान्निध्यप्रदायिनी | दहनं प्रथितं लोके पितृलोकैकसाधकम् || २३ || मदीयभक्तगात्राणां समाधिर्विहितो मया | ये त्वविश्वासिनो लोके मदुक्तविधिषु ध्रुवम् | न बहिर्निःसरेयुस्ते कदाऽपि नरकार्णवात् || २४ || इति श्रीमकुटागमे चर्यापादे शाम्भवान्त्येष्टिप्रशंसा नाम प्रथमः पटलः || १ || द्वितीयः पटलः रुद्र उवाच परमेश्वर सर्वात्मन् सर्वकारण शाश्वत | उच्चिक्रिमिषुणा सद्यः कर्तव्यं तन्निबोध मे || १ || परशिव उवाच उच्चिक्रिमिषोर्भस्मस्नानादिकम् उच्चिक्रिमिषुराश्वेव मययावेशितचेतनः | कर्तुं दानादिकं स्नानमाग्नेयादिकमाचरेत् || २ || घृतधौताम्बरो भूम्यामासीनश्च कुशासने | उद्धूलनं त्रिपुण्ड्राणि धृत्वा भूत्या यथोदितम् | रुद्राक्षान् बिभृयादेव शिरःकण्ठकरादिषु || ३ || भस्मरुद्राक्षधारी तु यश्चापि म्रियते यदि | सोऽपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः || ४ || प्. ३९) उत्क्रान्तिमथ विज्ञाय निमित्तैराशुभाविनीम् | आत्मन्यग्नीन् समारोप्य याते अग्नेति मन्त्रतः | भस्मादायाग्निरित्याद्यैर्विमृज्याङ्गानि संस्पृशेत् || ५ || अविदितकालस्य पुत्रेण दानादिकं कर्तव्यम् अथाविदितकालः सन् समुत्क्रान्तिं लभेत चेत् | तत्पुत्र आशु कुर्वीत आत्मारोपं यथाविधि || ६ || आत्मन्यारोपितस्यास्य वह्नेः प्रशमनाय वै | षड्ध्वशुद्धैः कर्तव्यो ह्यप्सु होमस्त्वनन्तरम् || ७ || आत्मन्यग्नीन् समारोप्य होममप्सु विधाय च | हिरण्यं च यथाशक्ति दद्याद् गां लिङ्गमेव च || ८ || अत्युत्क्रान्तौ प्रवृत्तस्य सुखोत्क्रमणसिद्धये | तुभ्यं सम्प्रददे धेनुमिमामुत्क्रान्तिसंज्ञिताम् || ९ || प्. ४०) पुनरावृत्तिरहितशिवसायुज्यसिद्धये | इदं सम्प्रददे तुभ्यं शिवलिङ्गं सुपावनम् || १० || दानसाद्गुण्यकामेनावश्यं देया सुदक्षिणा | हीनं दक्षिणया सर्वं व्यर्थं भवति शङ्कर || ११ || लिङ्गदानमहिमा ब्रह्माण्डकोटिदानेन यत्फलं भवतीश्वर | तत्फालं समवाप्नोति शिवलिङ्गप्रदानतः || १२ || स्थूलदेहविलापनम् सर्वाङ्गलिङ्गसाहित्यं नित्यमा प्रायणादपि | भावयेदवधानेन शिवसायुज्यसिद्धये || १३ || आयुषः प्राणमित्येवं तत्त्वान्यपि च योजयेत् | यथाक्रमं कारणेषु स्थूलदेहं विलापयेत् || १४ || देहच्छिद्राणि गगने श्वसने श्वाससन्ततिम् | ऊष्माणं ज्वलने वारिण्यसृक्पूयकफादिकम् || १५ || प्. ४१) अस्थिमांसादिकठिनभागान् भूमौ यथोदयम् | विलाप्यैवं स्थूलदेहं सूक्ष्मं चापि विलापयेत् || १६ || सूक्ष्मदेहविलापनम् शूलिन् सूक्ष्मशरीरस्य विलापनमपि शृणु | करणप्रेरकत्वेन देवानां तत्र मुख्यताम् | आलोक्य तत्रेन्द्रियाणि विषयैः सह योजयेत् || १७ || वक्तव्यसहितां वाचं वह्नाविन्द्रे सशिल्पकौ | पाणी विष्णौ पदे गत्या रत्योपस्थं प्रजापतौ | पायुं विसर्गसहितं मृत्यौ शर्व विलापयेत् || १८ || दिशासु सह शब्देन श्रोत्रं स्पर्शैः सह त्वचम् | वायौ दिनेशे रूपेण चक्षुषि प्रविलापयेत् || १९ || रसेन वरुणे जिह्वां गन्धैर्घ्राणं सहाश्विनोः | मन्तव्येन मनश्चन्द्रे बुद्धिं बोध्यैश्चतुर्मुखे | रुद्रे सहाहङ्कर्तव्यैरहङ्कारं विलापयेत् || २० || प्. ४२) भोक्तृत्वादिविकाराद्यैः क्षेत्रज्ञे सह योजयेत् | चित्तं चेतयितव्यैश्च गुणकार्योक्तदैवतैः | विकारवन्तं तमपि मयि ब्रह्मणि योजयेत् || २१ || क्षित्यादिभूताहङ्कारमहदव्यक्तसंज्ञिनाम् | विकारहेतुभूतानां स्वस्वहेतौ लयः क्रमात् || २२ || सर्वाङ्गलिङ्गसाहित्यभावनम् सर्वाङ्गलिङ्गसाहित्यं नित्यमा प्रायणादपि | भावयेदवधानेन मम सायुज्यसिद्धये || २३ || सर्वेष्वङ्गेषु सर्वत्र सर्वदा सर्वतोमुखम् | लिङ्गं गुरूपदेशेन ज्ञातं यत्तत् प्रकाशते || २४ || एकमेव परं लिङ्गमङ्गेऽस्मिन् सुप्रतिष्ठितम् | सर्वतोमुखमाभाति नामरूपक्रियात्मना || २५ || प्. ४३) इष्टलिङ्गादिभावनम् इष्टलिङ्गं तु बाह्याङ्गे प्राणलिङ्गं तथान्तरे | भावलिङ्गं तथैवास्मिन्नात्माङ्गे सुप्रतिष्ठितम् || २६ || हृदयाङ्गे महालिङ्गं श्रोत्राङ्गे तु प्रसादकम् | त्वगङ्गे चरलिङ्गं तु दृगङ्गे शिवलिङ्गकम् || २७ || जिह्वाङ्गे गुरुलिङ्गं तु नासिकाङ्गे तथैव च | आचारलिङ्गमश्रान्तं सुप्रतिष्ठितमेव हि || २८ || यथा ज्ञानेन्द्रियाङ्गेषु क्रमाल्लिङ्गं प्रतिष्ठितम् | तथा कर्मेन्द्रियाङ्गेषु क्रमाल्लिङ्गं प्रतिष्ठितम् || २९ || अप्रतर्क्यमनिर्देश्यं चेतनावागगोचरम् | सर्वशक्त्यपि सर्वज्ञं सच्चिदानन्दलक्षणम् || ३० || प्रायश्चित्तसमाचरणम् भावयन्नेति तद्भावं भावपूतेन चेतसा | गणानुज्ञां गृहीत्वाऽतः प्रायश्चित्तं समाचरेत् || ३१ || प्. ४४) सर्वजन्मार्जितानीह पातकानि महान्त्यपि | लिङ्गजङ्गमगुर्वङ्घ्रितीर्थप्राशनतस्तथा | नश्यन्ति तत्क्षणादेव नात्र कार्या विचारणा || ३२ || महाशैवव्रतस्थानां मद्भक्तानां विशेषतः | न निष्कृत्यन्तरं मुख्यं मत्तीर्थप्राशनादृते || ३३ || अन्त्यकाले तु यस्याऽस्ये दीयते मत्पदोदकम् | सोऽपि सद्गतिमाप्नोति यश्चाचारबहिष्कृतः | तथा मन्नामधेयानि कीर्तयेदवधानतः || ३४ || शिवनामस्मरणम् शिव शिव शिव चेति व्याहरन् वै त्रिवारं त्यजति निजतनुं यः स्वायुषोऽन्त्यक्षणेऽस्मिन् | भवति भवभयानां छेदकः पूर्वशब्दो न भवत इतरौ तौ कल्पितात्मोपकारौ || ३५ || मरणसमये मन्त्रश्रावणम् ततश्च कर्णमन्त्राणि श्रावयेयुः सुतादयः | षडक्षरं दक्षकर्णे निषदश्चैव शाश्वतीः || ३६ || प्. ४५) तत उत्क्रान्तिवेलायां कर्पूरं ज्वालयेदपि | अणुः पन्थेत्यर्चिरादिगत्यर्थं मन्त्रमुच्चरन् || ३७ || इति श्रीमकुटागमे चर्यापादे उच्चिक्रिमिषुकर्तव्यविधिर्नाम द्वितीयः पटलः || २ || तृतीयः पटलः रुद्र उवाच विश्वातीत जगद्योने सर्वाधार परात्पर | दृष्ट्वोत्क्रान्तिं ततः कर्त्रा किं कर्तव्यं वदस्व मे || १ || परशिव उवाच उत्क्रान्तासुं परीक्ष्याथ कर्ता संशुद्धचेतनः | स्नात्वा धृतत्रिपुण्ड्रश्च रुद्राक्षसमलङ्कृतः || २ || कर्माधिकारसिद्ध्यर्थं गणानुज्ञा कर्माधिकारसिद्ध्यर्थं कृत्वा गणनमस्कृतिम् | तदभ्यनुज्ञां गृह्णीयाद् यथाशक्तिप्रदानतः || ३ || मृताहदानं तत्सर्वपर्वदानाद् विशिष्यते | तद्यथाशक्ति दातव्यं द्रविणं पितृहितैषिणा || ४ || प्. ४७) दोषप्राप्तौ प्रायश्चित्तम् ऊर्ध्वोच्छिष्टादिसम्प्राप्तौ प्रायश्चित्तं समाचरेत् | प्राजापत्यप्रतिनिधिं दद्याद् द्रव्यं यथोदितम् || ५ || खट्वायां मरणे प्राप्ते प्राजापत्यं समाचरेत् | गां वा हिरण्यं दद्याच्च तद्दोषविनिवृत्तये || ६ || निशि कृष्णे च पक्षे च मरणे दक्षिणायने | ताः सूर्या इति वै षड्भिर्हुत्वा कुर्याच्च संस्क्रियाम् || ७ || इष्टलिङ्गसंस्कारः लीनप्राणशरीरं तु श्रीरुद्रेणाभिषिच्य च | भस्मरुद्राक्षगन्धाद्यैरलङ्कृत्येष्टलिङ्गकम् || ८ || करे निवेश्य सम्पूज्य पेटिकायां निधाय च | विमाने तद्वपुः स्थाप्य सर्वमङ्गलनिस्वनैः || ९ || प्. ४८) विमानवाहकनामानि महोक्षो वृषभश्चैव नन्दीशो नन्दिकेश्वरः | एतैश्च नामभिर्युक्तांश्चतुरो वाहकान् वृणेत् || १० || शिवारामं प्रति नयनम् शिवारामं प्रति नयेत् तैर्वृतैर्वाहकैः सुतः | अग्रे मङ्गलनिस्वानाः सम्भारास्तदनन्तरम् | पूजाद्रव्याणि संस्कर्ता विमानं बान्धवाः क्रमात् || ११ || निवीतिनो वहेयुस्तद्विमानं वाहका अमी | निषदः प्रब्रुवाणाश्च गच्छेयुर्बान्धवा अपि || १२ || इति श्रीमकुटागमे चर्यापादे समाधिदेशप्रापणं नाम तृतीयः पटलः || ३ || चतुर्थः पटलः रुद्र उवाच अनन्तशक्तिकलितलीलावैभवशोभित | भूनिक्षेपविधानं तदशेषं ब्रूहि मे विभो || १ || परशिव उवाच समाधिस्थलनिर्देशः शिवालयसमीपे वा शिवारामस्य वाऽन्तिके | शिवतीर्थसमीपे वा विल्वमूले नदीतटे | समाधिं कारयेत् प्राज्ञो वक्ष्ये तल्लक्षणं शृणु || २ || समाधिरचनाप्रकारः चतुरस्रं पञ्चपादं दीर्घं विस्तारमेव च | खातं नवपदं त्वाद्यं सोपानं चैकपादकम् | द्वितीयं द्विपदं प्रोक्तं तृतीयं त्रिपदं तथा || ३ || वेदिका च त्रिपादेन तस्य दक्षिणतो दिशि | त्रिकोणं च प्रकर्तव्यं त्रिपादं दीर्घमायतम् || ४ || प्. ५०) खात्वा मा वो रिषदिति गोमयेनोपलिप्य च | रङ्गवल्याप्यलङ्कृत्य गायत्र्या प्रोक्ष्य वारिणा || ५ || अग्निरित्यादिना भस्मशययां सम्यग् विधाय च | विकीर्य पत्रपुष्पाणि चतुर्दिक्षूपरि ह्यधः || ६ || समाधौ देहनिक्षेपः षडक्षराणि विन्यस्य मूलेनैवाभिमन्त्र्य च | तदत्सु तूर्यवृन्देषु पुष्पवृष्टौ चरत्यपि || ७ || चित्तिः पृथिव्यग्निरिति चानुवाकान् समुच्चरन् | स्वस्तिकासनरूपेण तच्छरीरमुदङ्मुखम् | शम्भो हव्यं गृहाणेति निदधीत विले तदा || ८ || भस्मलवणमृत्तिकापूरणम् ऋतं तप इति पठन् भस्मना लवणेन च | मृत्तिकाभिः पूरयेताप्याकण्ठं तदनन्तरम् || ९ || प्. ५१) सर्वस्य प्रतिशिवेति मूर्धानं दिव इत्यपि | सजलं भस्म मृत्पिण्डं पितुर्मूर्धनि निक्षिपेत् | ततश्च पूरयेद् गर्तं भस्मना मृत्स्नयापि च || १० || सचैलं स्नानं केशश्मश्रुवपनं च वस्त्रं सन्धापयेदादौ ततः स्नानं समाचरेत् | सचेलस्तु पुनः स्नात्वा केशश्मश्रूणि वापयेत् || ११ || ब्राह्मणस्वर्णघातादिपापानि विविधानि च | केशानाश्रित्य तिष्ठन्ति तस्मात् केशान् वपाम्यहम् || १२ || मेरुमन्दरतुल्यानि पापानि विविधानि च | केशानाश्रित्य तिष्ठन्ति तस्मात् केशान् वपाम्यहम् | इति मन्त्रं परिपठन् केशश्मश्रूणि वापयेत् || १३ || प्. ५२) शिखिलक्षणम् अग्नेरिव शिखा यस्य विद्याज्ज्ञानमयी शिखा | स शिखीत्युच्यते विद्वानितरे केशधारिणः || १४ || इति श्रीमकुटागमे चर्यापादे समाधिविधिकथनं नाम चतुर्थः पटलः || ४ || पञ्चमः पटलः रुद्र उवाच अनादिनिधनानन्तकल्याणगुणवारिधे | भूनिक्षेपानन्तराणि कृत्यान्यपि निबोध मे || १ || परशिव उवाच समाधिस्थले सवृषभलिङ्गस्थापनपूजनम् निर्वृत्तवपनः स्नात्वा भूतिरुद्राक्षभूषितः | गणानुज्ञां गृहीत्वाऽथ दिव्यरूपाप्तये पितुः || २ || पञ्चभिर्नवभिर्वाऽथ वृषभैरभिशोभितम् | पितृनामाङ्कितं लिङ्गं समाधौ स्थापयेत् सुतः || ३ || तदा दद्याद् गवादीनि दानानि दश चादरात् | समाधिस्थापितं लिङ्गं सवृषं पूजयेदपि || ४ || मृद्घट्टनादिव्यापारजाततापोपशान्तये | क्षीरेण तर्पयेदिष्टलिङ्गादीनि महेश्वर || ५ || प्. ५४) पित्रे दद्यादनुदिनं त्रिसंख्यानुदकाञ्जलीन् | वासोदकादिकं नैव देयं पितृहितैषिणा || ६ || नग्नप्रच्छादनाराधनम् प्रविश्य ज्ञातिभिः सार्धं दीपेन सहितं गृहम् | नग्नप्रच्छादनाभिख्यं कुर्यादाराधनं सुतः || ७ || समाधिस्थापितलिङ्गस्य दशाहपर्यन्तं रक्षणम् समाधिस्थापितं लिङ्गं दशाहान्न विचालयेत् | जन्त्वादिभिर्विचलिते यथास्थानं निधाय तत् || ८ || प्राणायामत्रयं कृत्वा तत् स्पृष्ट्वा व्याहृतीर्जपेत् | तस्मिन् स्वरूपतो नष्टे विधिवत् स्थापयेत् पुनः || ९ || प्. ५५) दिव्यदेहावाप्तिक्रमः प्रथमाहिककृत्येन तस्य मूर्धाऽभिजायते | नासिकाश्रवसी नेत्रे द्वितीयाहिककृत्यतः || १० || ग्रीवा वक्षो भुजौ चापि तृतीयेऽह्नि भवन्त्यपि | नाभिस्थानं लिङ्गगुदे चतुर्थेऽह्नि भवन्त्यमी || ११ || ऊरू तु पञ्चमे स्यातां चर्म षष्ठे भवेदपि | सप्तमेऽह्नि सिराः सर्वा जायन्ते तद्विधानतः || १२ || अष्टमेऽह्नि च जायेरन् सर्वरोमाण्यनन्तरम् | नवमाहिककृत्येन वीर्यं तस्याभिजायते || १३ || दशमाहिककृत्येन तृप्तिस्तस्य परा भवेत् | आराधनं ततः कार्यं दिव्यरूपवतः पितुः || १४ || एकोद्दिष्टविधानेन रुद्रत्वं तस्य जायते | तत्त्वसंयोजनवशाद् महेशत्वं पुनर्भवेत् || १५ || प्. ५६) नवाराधनक्रमः प्रथमेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमे तथा | नवमैकादशाह्नोश्च नवाराधनमाचरेत् || १६ || अन्तर्दशाहे दर्शो वा संक्रान्तिर्वा भवेद्यदि | तदा समापयेदन्यः सुतस्तु न समापयेत् || १७ || अदीक्षितपितृपुत्रयोर्दीक्षाक्रमः पित्रोर्मरणकाले तु दीक्षाहीनः सुतो यदि | अन्त्यक्रियाऽस्य निर्वर्त्या पुत्रे निक्षिप्य कर्तृताम् || १८ || अदीक्षितो यदि पिता तत्तनोर्नहि संस्कृतिः | तमावाह्याथ कूर्चायां दीक्षां दत्त्वा यथोदितम् | समाधिं सुविधायाथ नित्यकर्मादिकं चरेत् || १९ || प्. ५७) पितुः पिता तत्पिता वा दीक्षाहीनो मृतो यदि | पितुस्तदैक्यसिद्ध्यर्थं दीक्षां परोक्षमाचरेत् || २० || स्थण्डिले कूर्चमानीय मृतमावाह्य नामतः | परोक्षदीक्षाकरणे स लिङ्गी भवति ध्रुवम् || २१ || दशमदिने वपनक्षीरतर्पणादिकम् ज्ञातयः सप्तमादर्वाक् कनिष्ठा दशमेऽहनि | वापयेयुश्च ते सर्वे कर्तृभिः सह सर्वदा || २२ || स्नात्वा धृतत्रिपुण्ड्राश्च ते कुर्युः क्षीरतर्पणम् | ततः कुर्याद् यथाशक्ति दशदानानि यत्नतः || २३ || सवृषभलिङ्गविसर्जनम् समाधिलिङ्गं सवृषमुद्वास्य वसने तथा | निधाय तीर्थमानीय विसृजेत् तत्र संयतः || २४ || प्. ५८) होमपुण्याहवाचनादिकम् लिङ्गमुद्वास्य च स्नात्वा तिलामलकवारिभिः | गाणपत्याभिधं चैव होममानन्दसंज्ञितम् || २५ || कुर्यात् पितृगणैः साकमानन्दसमवाप्तये | पुण्याहवाचनं कृत्वा ततो गच्छेद् गृहं प्रति || २६ || इति श्रीमकुटागमे चर्यापादे लिङ्गस्थापनादिविधिकथनं नाम पञ्चमः पटलः || ५ || षष्ठः पटलः रुद्र उवाच अप्रमेयगुणाधार चिदानन्दैकसागर | एकादशेऽह्नि कर्तव्यं वदस्व करुणानिधे || १ || परशिव उवाच एकादशाहकृत्यानि एकादशेऽहनि स्नात्वा माहेशान् वै निमन्त्र्य च | रुद्रहोमं विधायादौ वृषोत्सर्जनमाचरेत् || २ || उत्सृजेद् वृषभं श्वेतं रोहितं नीलमेव वा | तृप्त्या वै नन्दिकेशस्य मम सान्निध्यलब्धये | निराभार्याश्रमयुते सिद्धे न वृषमुत्सृजेत् || ३ || षोडशाराधनानि आद्यमासिकमुख्यानि षोडशाराधनानि च | रुद्रगणाराधनं च वृषोत्सर्गाभिधं तथा || ४ || प्. ६०) पञ्चाशद् रुद्राराधनम् आचारादिकषड्लिङ्गस्थलषट्कसमाश्रयम् | अनुत्तरं च पञ्चाशद् रुद्राराधनमाचरेत् || ५ || एकादशे भवेदाद्यमूने मास्यूनमासिकम् | त्रैपक्षिकं त्रिपक्षे स्यादूनषाण्मासिकं तथा | प्रतिमासं मृताहस्सु ऊनाब्दं चेति षोडश || ६ || एकादशेऽह्नि वै कुर्यात् षोडशाराधनान्यपि | द्वादशाहे तदा कुर्यात् तत्त्वसंयोजनं सुतः || ७ || एकोद्दिष्टलक्षणम् एकोद्दिष्टविधानेन तत्त्वसंयोगसिद्धये | क्रियते यदेकमुद्दिश्य त्वेकोद्दिष्टं प्रकीर्तितम् || ८ || प्. ६१) शैवाराधने वर्ज्यानि विश्वेदेवा न पूज्यन्ते नाभिश्रवणमुच्यते | प्रदक्षिणं विसर्गश्च सीमान्तगमनं नहि || ९ || माहेश्वरभोजनम् एकादशेऽह्नि माहेशानेकादश सुभोजयेत् | यथासम्भवमेतद्धि रुद्राराधनमीरितम् || १० || तथैव भोजयेदेकं वृषोत्सर्गफलाप्तये | वृषोत्सर्गाराधनं तु विधातव्यं मम प्रियम् || ११ || रुद्राराधनक्रमः आचारादिकषड्लिङ्गस्थलषट्कसमाश्रयम् | खड्गेशादिकपञ्चाशद् रुद्राराधनमाचरेत् || १२ || चत्वारः षड् दश तथा रुद्रा द्वादश षोडश | द्वावित्याचारलिङ्गादिस्थलषट्कसमाश्रयाः || १३ || प्. ६२) पञ्चाशद्रुद्रनामानि खड्गेशश्च बकेशश्च श्वेतो भृङ्गीश्वरस्तथा | छगलण्डद्विरण्डेशौ महाकालीश्वरोऽपि च || १४ || भुजङ्गेशपीनाकीशदारुकेशास्ततः परम् | अर्धनारीडुमाकान्त आषाडीशस्ततः स्मृतः || १५ || दण्डीशात्रीशमित्रेशमेषेशा लोहितेश्वरः | शिखीश्वरश्च क्रोधेशश्चण्डः पञ्चान्तकेश्वरः || १६ || शिवोत्तमैकरुद्रेशौ कूर्मेशश्चैकनेत्रकः | चतुराननेश्वराजेशशर्वसोमेश्वरास्तथा || १७ || लाङ्गलीशश्च संवर्तकेशः श्रीकण्ठसंज्ञकः | अनन्तेशश्च सूक्ष्मेशस्त्रिमूर्तीशस्ततः स्मृतः || १८ || अमरेशस्तथाऽर्घेशो भारभूतेश्वरस्तथा | अतिथीशश्च स्थाण्वीशो हरो झिण्टीश्वरस्तथा || १९ || भौतिकेशश्च सद्योजातेशश्चानुग्रहेश्वरः | अक्रूरेशो महासेनो लकुलीशः शिवेश्वरः | पञ्चाशत्संख्यका रुद्रा अमी पूज्या यथाक्रमम् || २० || इति श्रीमकुटागमे चर्यापादे एकादशाहकर्तव्यविधिकथनं नाम षष्ठः पटलः || ६ || सप्तमः पटलः रुद्र उवाच सर्वशक्तिसमायुक्त सर्वैश्वर्यसमुन्नत | द्वादशाहकृत्यविधिमशेषं ब्रूहि मे विभो || १ || परशिव उवाच द्वादशाहकृत्यानि चतुर्थस्य निवृत्त्यर्थं जीवभावनिवृत्तितः | तत्त्वादियोजनादूर्ध्वं चतुर्थोऽपि निवर्तते || २ || गुरुदीक्षापरिप्राप्तशिवलिङ्गाङ्गयोगतः | द्विरेफकीटन्यायेन शिवैक्यं प्राप्तवान् द्विजः || ३ || प्. ६५) लिङ्गाङ्गसंगिनि मृते सम्प्राप्ते द्वादशेऽहनि | सापिण्ड्यं नैव कर्तव्यं प्रेतत्वाभावतस्ततः || ४ || दीक्षाकालपरिप्राप्तशिवैक्यं जीवभावतः | आविर्भूतं विजानन्ति मदीयागमवेदिनः || ५ || सदाशिवाद्यभिन्नेभ्यः पितृभ्यस्तत्त्वसम्मिताः | कलाः संगृह्य चान्यत्र समभ्यर्च्य यथाविधि || ६ || तत्त्वादियोजनक्रमः जीवभावनिवृत्त्यर्थं मृतलिङ्गाङ्गसङ्गिनः | वर्गत्रयैक्यसिद्ध्यर्थं तत्त्वादीन् योजयेत् सुतः || ७ || द्वादशेऽहनि वै कर्ता माहेशान् सन्निमन्त्र्य च | गृहीत्वैव गणानुज्ञामेवं संकल्पमाचरेत् || ८ || पितुस्तदीयपित्राद्यैर्महेशादिस्वरूपकैः | शिवसायुज्यसिद्ध्यर्थं करिष्यन् तत्त्वयोजनम् || ९ || प्. ६६) नन्दिकेशमहाकालसंज्ञिनोर्विश्वदेवयोः | पितुः पितामहादीनां महेशादिस्वरूपिणाम् || १० || षट्त्रिंशतां च तत्त्वानां कलानामष्टत्रिंशताम् | आराधनं करिष्यामीत्येवं संकल्पपूर्वकम् || ११ || विश्वेदेवौ च पित्रादीन् तत्त्वानि च कलास्तथा | आवाह्य चाभिसम्पूज्य चिकीर्षुस्तत्त्वयोजनम् | दश दानानि वै कुर्याद् गवादीनि यथाक्रमम् || १२ || अथ कर्ता गृहीत्वा तु ताम्रपात्रं हि साक्षतम् | पितामहादिस्थानस्थमाहेशनिकटस्थितः || १३ || पितामहादिभिः पात्रे हस्तस्पर्शं हि कारयन् | पितामहादीनावाह्य पितृस्थानीयमाश्रितः || १४ || सद्योजातं प्रपद्यामीत्याद्यान् मन्त्रान् समुच्चरन् | चन्द्रशेखरमुख्यान् वै तत्त्वेशांस्तत्र योजयेत् || १५ || प्. ६७) कलायोजनम् ईशानः सर्वविद्यानामित्याद्यानुच्चरन् मनून् | शशिन्यादिकलाश्चापि क्रमशस्तत्र योजयेत् || १६ || चतुर्थभावनिवृत्त्यर्थं पात्रप्रदानक्रमः पितृस्थानस्थितायास्मै दत्त्वा तत्पात्रमादितः | पितरं पितामहस्य स्थाने संयोजयाम्यहम् | इति ब्रुवाणस्तत्पात्रं दद्यात् पैतामहाय वै || १७ || पितामहं महेशस्वरूपं हि प्रपितामहे | संयोजयामीति वदन् तत्पात्रं पूर्ववत्ततः | प्रपितामहपदस्थाय दद्यान्माहेश्वराय च || १८ || ततः परं सदाशिवस्वरूपं प्रपितामहम् | संयोजयाम्यहं वृद्धप्रपितामह इति ब्रुवन् | तत्स्थानसंस्थितायास्मै दद्यात् पात्रमनन्तरम् || १९ || प्. ६८) शिवस्वरूपममलं तं वृद्धप्रपितामहम् | अरूपे परमे शैवे तत्त्वे संयोजयाम्यहम् || २० || इति ब्रुवाणस्तमिमं मयि लीनं विभावयेत् | एवमुक्तविधानेन चतुर्थो विनिवर्तते || २१ || इति श्रीमकुटागमे चर्यापादे द्वादशाहविधिकथनं नाम सप्तमः पटलः || ७ || अष्टमः पटलः रुद्र उवाच समस्तजगदाधार समस्तामरवन्दित | प्रकीर्णकविधिं ब्रूहि सर्वज्ञ परमेश्वर || १ || परशिव उवाच सोदरेषु पितुः कर्म कुर्वत्स्वन्यः स्थलान्तरात् | दशाहमध्य आगच्छेत् कृत्वा गतदिनक्रियाम् | समाधिवर्जं मिलितः शेषं कर्म समाचरेत् || २ || तत्त्वसंयोजनाधिकारक्रमः कनिष्ठेनाऽथवाऽन्येन कृतेऽपि पितृकर्मणि | कुर्यादुदकदानं च तत्त्वसंयोजनं सुतः | अग्रजेन कृतं कर्म नानुजेन पृथक् कृतिः || ३ || प्. ७०) तत्त्वयोजने विशेषः श्राद्धकर्तुर्यदा भार्या ह्याशौचान्ते रजस्वला | श्राद्धशेषं प्रकुर्वीत विसृजेत् तत्त्वयोजनम् || ४ || तत्त्वसंयोजने प्राप्ते मृतपत्नी रजस्वला | तत्त्वसंयोजनं न स्यात् तत्कुर्यात् पञ्चमेऽहनि || ५ || क्लीबादीनां तत्त्वसंयोजनं नास्ति तत्त्वसंयोजनं नैव क्लीबानां दुष्टयोषिताम् | अद्वादशवयस्कानां मृतानां ब्रह्मचारिणाम् || ६ || नैष्ठिकानां यतीनां च कार्येशानबलिस्तथा | तत्त्वसंयोगरहिते न प्रत्याब्दिकमिष्यते || ७ || पार्वणाराधनादिकम् अदैवं पार्वणसमं सोदकुम्भमधर्मकम् | संकल्पविधिना कार्यमन्वहं त्वाब्दिकावधि || ८ || तत्त्वसंयोजनादूर्ध्वं वत्सरं वा तदर्धकम् | नान्यत् कुर्यादष्टकायाः पार्वणाराधनं सुतः || ९ || प्. ७१) तत्त्वसंयोजनवशान्महेशत्वयुजः पितुः | प्रत्यब्दं प्रतिमासं च कुर्यात् पार्वणवत् सुतः || १० || पाकशेषं न यो भुञ्ज्याद् दैवे पित्र्ये च कर्मणि | सम्यगाचरितं वाऽपि तस्य तत् स्यान्निरर्थकम् || ११ || नक्तव्रते च नियते संकटे राहुदर्शने | रात्रावपि विधेयं स्याच्छ्राद्धं श्रद्धासमन्वितैः || १२ || उपरागे पैतृके च तीर्थे दर्शे च संक्रमे | पितॄन् संतर्पयेद् धीमान् साक्षतैर्विमलैर्जलैः || १३ || आराधनलक्षणम् पित्रादयो महेशादिरूपा यत्र हि पैतृके | आराध्यन्ते तु भक्त्या तदाराधनमुदीरितम् || १४ || प्. ७२) तत्र नन्दिमहाकालौ विश्वेदेवौ प्रकीर्तितौ | पित्रर्थं कीर्तिता एते महेशश्च सदाशिवः | शिव इति त्रयः शम्भुः संरक्षक इति स्मृतः || १५ || द्विविधं श्राद्धमङ्गानि च श्राद्धं तु द्विविधं प्रोक्तं पितृमल्लोकवासिनाम् | पितॄणां तृप्तिजनकं पितृलोकनिवासिनाम् || १६ || श्राद्धस्याङ्गानि वक्ष्यामि शृणु रुद्र यथाक्रमम् | होमस्त्यागस्तथा पिण्डो विश्वेदेवास्तिलाः कुशाः | उद्देशः पितृदेवानामर्घ्यपात्रं च रक्षकम् || १७ || अपसव्यं च विकिरं श्राद्धाङ्गमिति कीर्तितम् | मल्लोकवासिनां पुत्र पितॄणां प्रवदाम्यथ || १८ || श्राद्धकर्मणि निषिद्धम् होमः पिण्डस्तिला दर्भा विकिरं चार्घ्यपात्रकम् | अपसव्यं तथा सप्त निषिद्धं श्राद्धकर्मणि || १९ || प्. ७३) विश्वेदेवाः पित्रुद्देशस्त्यागः संरक्षकोऽपि च | श्राद्धाङ्गानि भवन्त्येव तस्मात् तान्युपयोजयेत् || २० || शाम्भवव्रतिनां सापिण्ड्यं नास्ति शाम्भवव्रतिने श्राद्धं सपिण्डं विदधाति यः | कुलमासप्तमं तस्य नरके निपतेद् ध्रुवम् || २१ || त्रिविधमाराधनम् गृह्याद्यधिकृतं चैव निराभार्याधिकारिकम् | सांकल्पिकमिति तथा प्रोक्तमाराधनं त्रिधा || २२ || गृह्याद्यधिकृते कार्यं विश्वेदेवादिसंयुतम् | विश्वेदेवान् पित्रुद्देशं त्यागं संरक्षकं तथा | वर्जयित्वैव कर्तव्यं निराभार्याधिकारिकम् || २३ || विश्वेदेवान् रक्षकं च त्यागमावाहनादिकम् | त्यक्त्वा संकल्पमात्रेण कारुण्यानां विधीयते || २४ || प्. ७४) आराधने माहेश्वरार्चा शैवशास्त्रविशेषज्ञः षट्स्थलज्ञानकोविदः | त्रिकालपूजाभिरतो लिङ्गनिष्ठापरायणः || २५ || माहेश्वरोऽर्चनीयः स्यान्मुख्य आराधने स्मृतः | एककालार्चनासक्तो मध्यमः परिकीर्तितः || २६ || अनर्पितं च यो भुङ्क्ते नैकदा लिङ्गमर्चति | मद्भक्तानपि यो द्वेष्टि वर्जनीयः स सर्वदा || २७ || इति श्रीमकुटागमे चर्यापादे प्रकीर्णकविधिकथनं नाम अष्टमः पटलः || ८ || नवमः पटलः रुद्र उवाच स्वलीलाकल्पितानल्पजगज्जाल निराकुल | प्रत्याब्दिकविधानं मे कृत्स्नं ब्रूहि जगत्पते || १ || परशिव उवाच प्रत्याब्दिकाराधनविधानम् विधाय नित्यकर्माणि विप्रानाहूय सादरम् | दीपं प्रज्वाल्य गन्धाद्यैरलङ्कृत्य प्रणम्य च || २ || सभस्मघुण्टिकं चैव ताम्बूलं दक्षिणान्वितम् | गृहीत्वा नन्दिकेशादीन् नमस्कुर्याद् गणेश्वरान् || ३ || नम आव्याधिनीभ्य इत्यथ कुर्यात् प्रदक्षिणम् | त्रिसंख्यं घण्टिकानादं कारयन् स्थिरचेतसा || ४ || उपस्पृश्याथ संकीर्त्य देशकालौ यथाक्रमम् | पितुरैक्यदिनाभिख्याराधनं तृप्तिसाधनम् | करिष्य इति संकल्प्य कलशं चाभिपूज्य च || ५ || प्. ७६) इमा माहेशपूजार्थं दुरितक्षयकारकाः | इति द्रव्याणि सम्प्रोक्ष्य क्षणान् दद्याद् यथाक्रमम् || ६ || सप्तद्रव्यवर्जनम् अपसव्यं तिलान् दर्भान् पिण्डदानाग्निकर्मणि | विकिरं चार्घ्यपात्रं च शैवे सप्त विवर्जयेत् || ७ || पित्राराधनदेवताः पिता महेश्वरः प्रोक्तस्तत्पिता च सदाशिवः | प्रपितामहः शिवश्चैते पित्राराधनदेवताः || ८ || आराधनकर्मणि वैषम्यवर्जनम् तपसा विद्यया वाऽग्र्या अर्हन्त्युत्तममासनम् | दानभोजनपूजासु न वैषम्यं शुभावहम् || ९ || प्. ७७) पुष्पाक्षतादिदानेन माहेश्वरनिमन्त्रणम् नन्द्यादिसंज्ञिनां विश्वेदेवानां स्थानके तथा | महेश्वरादिसंज्ञानां पितॄणां स्थानकेऽपि च || १० || संरक्षकस्य शम्भोश्च स्थाने पुष्पाक्षतान् क्षणान् | दत्त्वा ब्रूयात् प्रसादश्च भवद्भिः कार्य इत्यपि || ११ || निमन्त्रिता मौनयुजो मद्ध्यानासक्तचेतसः | तृप्तिमन्तश्च वर्तेरन् न चेन्निरयमाप्नुयुः || १२ || मण्डलद्वयरचनम् पादार्चनाय रचयेद् बाह्यमान्तरमेव वा | अरङ्गमेति मन्त्रेण मण्डलद्वितयं तथा || १३ || मध्ये तयोरन्तरेण कर्तव्यं वै षडङ्गुलम् | यथा पादोदकस्पर्शो न भवेत् पितृदेवयोः || १४ || मण्डलद्वयमारच्य पाद्यार्थं पितृदेवयोः | तत्स्थाने भस्मगन्धाद्यैरर्चयेत् सकलैरपि || १५ || प्. ७८) निमन्त्रितमाहेश्वराणां सत्कारादिकम् स्वागतं परिपृच्छ्यैव दत्त्वा चासनमप्यथ | शन्नो देवीरिति पठन् पादौ प्रक्षालयेदपि || १६ || पादाम्बु स्वशिरस्युक्ष्य पादावुद्वर्त्य वाससा | भस्मना साक्षतैर्गन्धैः पुष्पविल्वादिकैरपि || १७ || धूपदीपनिवेद्यैश्च मन्त्रपुष्पेण चार्चयेत् | विश्वेदेवान् पितॄन् पश्चादथ संरक्षकं क्रमात् | पादौ प्रक्षाल्याचमेयुः कर्ता भोक्तार एव च || १८ || प्राणानायम्याथ कर्ता हस्तार्चापात्रगाक्षतान् | गृहीत्वा विष्टरान् दद्यात् स्वाहां स्वधां समुच्चरन् || १९ || विश्वेदेवाद्यावाहनम् विश्वेदेवान् पितॄंश्चैव नामगोत्रपुरस्सरम् | आवाह्य गन्धपुष्पाद्यैः समभ्यर्च्य यथा क्रमम् | वासोभिश्च हिरण्येन यथाशक्ति सुतोषयेत् || २० || प्. ७९) विकीर्य भस्म भोज्येषु तन्महेशेति चामनन् | आराधने गयां ध्यात्वा ध्यात्वा देवं महेश्वरम् | महेशादीन् पितॄन् ध्यात्वा कुर्यादाराधनं ततः || २१ || माहेश्वरेभ्यो भोजनपर्यवेषणम् इति मन्त्रं समुच्चार्य पाकदोषनिवृत्तये | पञ्चब्रह्माभिधैर्मन्त्रैराज्यमन्नेऽभिधारयेत् || २२ || पात्रेषु भक्ष्यभोज्यादि पर्याप्तं निक्षिपेदपि | प्रसादेऽङ्गुष्ठनिवेशनम् माहेश्वरस्वेष्टलिङ्गसमर्पणविधेरथ || २३ || कर्ता देव सवित इत्युच्चरन् परिषेचनम् | पात्रस्य कृत्वा पृथिवी ते पात्रं यच्छंयोरिति || २४ || प्. ८०) त्र्यम्बकं च पठेन्नेव माहेश्वरकरं ततः | गृहीत्वैव प्रसादे तु तदङ्गुष्ठं निवेशयन् || २५ || स्वाहास्वधाभ्यां देवपितृतर्पणम् भोक्तारमन्नमात्मानं ब्रह्मेत्येव विभावयन् | भुवं गयां शूलधरं भोक्तारं भावयन्नपि || २६ || नाम गोत्रं च सम्बन्धमुच्चार्य च प्रसादकम् | स्वाहां स्वधां यथायोगं नमश्च न ममेति च | ब्रुवन् समर्पयेद् देवपितृभ्यश्च यथाक्रमम् || २७ || पुनरावृत्तिरहितपितृतृप्तिनिरूपणम् गयायां श्रीरुद्रपादे क्षेत्रेषु श्रीनगादिषु | दत्तमस्त्वित्युद्गिरन् वै साक्षतं विसृजेज्जलम् || २८ || ततः संकल्प्य च कृतेनैक्याहाराधनेन च | पितॄणामक्षया तृप्तिः पुनरावृत्तिवर्जिता || २९ || प्. ८१) शाश्वती शिवसायुज्यसिद्धिर्भूयादिति ब्रुवन् | सर्वमेतद् यथाकालं दत्तमस्त्विति वाचयेत् || ३० || आपोशानप्रदानक्रमः दत्त्वा चापोशनं देवपितृभ्यश्च यथाक्रमम् | ईशानः पितृरूपेण महादेवो महेश्वरः || ३१ || प्रीयतां भगवानीशः परमात्मा सदाशिवः | प्रीयतां पितृरूपीश इत्युक्त्वा जलमुत्सृजेत् || ३२ || माहेश्वरप्रार्थनम् श्रद्धायां प्राण इत्याद्यैर्जुहुयुः प्राण आहुतीः | आमनन् मधु वातेति मध्विति त्रिः समुच्चरन् | यथासुखं जुषध्वमित्युक्त्वा तैः प्रतिवाचयेत् || ३३ || मन्त्रमध्ये क्रियामध्ये शम्भोः स्मरणपूर्वकम् | यत्किञ्चित् क्रियते कर्म तत्कोटिगुणितं भवेत् || ३४ || प्. ८२) अपेक्षितं याचितव्यं त्याज्यं चैवानपेक्षितम् | उपविश्य सुखेनैव भोक्तव्यं स्वस्थमानसैः || ३५ || उक्त्वा प्रसादभोगस्य काले तेषां निषद्गणान् | जाबालाद्यधिश्रवणमन्त्रान् संश्रावयेदपि || ३६ || उत्तरापोशनम् तेषां प्रसादभोगान्ते मधु वातेति मध्विति | तृप्ताः स्थेति च तानुक्त्वा तृप्ताः स्म इति वाचयेत् || ३७ || उत्तरापोशनं दत्त्वा करशुद्धेरनन्तरम् | उत्तरान् पाठयेन्मन्त्रान् श्रद्धायां प्राण आदिमान् || ३८ || अङ्गुष्ठमात्रः पुरुषो ह्यङ्गुष्ठं च समाश्रितः | ईशः सर्वस्य जगतः प्रभुः प्रीणाति विश्वभुक् || ३९ || भोजनानन्तरमनुष्ठानक्रमः इत्युक्त्वा तैराशिषश्चाक्षययमाराधनं त्विति | वाचयित्वा ऋचे त्वा पृथिवी शान्तेति चामनन् || ४० || प्. ८३) तान् त्रिः प्रदक्षिणं कृत्वा तैः स्वाहां च स्वधामपि | वाचयित्वा ततो ब्रूयादुपचारान् यथोचितम् || ४१ || अद्य मे सफलं जन्म भवत्पादाभिवन्दनात् | अद्य मे वंशजाः सर्वे याता वोऽनुग्रहाद् दिवम् || ४२ || पत्रशाखादिदानेन क्लेशिता यूयमीदृशाः | तत् क्लेशजातं चित्तेषु विस्मृत्य क्षन्तुमर्हथ | इति प्रणम्य तेभ्यश्च गृह्णीयादाशिषः पुनः || ४३ || माहेश्वरेभ्य आशीर्वचनग्रहणम् आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च | प्रयच्छन्तु तथा राज्यं प्रीत्या नॄणां पितामहाः | इत्युक्त्वा गच्छतो विप्रानासीमान्तमनुव्रजेत् || ४४ || महालयाराधने च तीर्थाराधनके तथा | संकल्प एव भिद्येत प्रयोगे न भिधा भवेत् || ४५ || प्. ८४) श्राद्धकर्मणि पित्राद्याराधनक्रमः मातॄणां वा पितॄणां वा वर्गः प्रत्याब्दिके भवेत् | महालयाराधनादौ पित्राद्याः सर्व ईरिताः || ४६ || आदौ पिता तथा माता सापत्नी जननी तथा | मातामहाः सपत्नीका आत्मपत्न्यस्त्वनन्तरम् || ४७ || सुतभ्रातृपितृव्याश्च मातुलाश्च सभार्यकाः | दुहिता भगिनी चैकदौहित्रो भागिनेयकः || ४८ || पितृष्वसा मातृष्वसा जामाता भुवुकः स्नुषा | श्वशुरः स्यालकश्चैव स्वामी च गुरुरिक्थिनौ || ४९ || माहेश्वरालाभे विष्टरेषु सर्वं कर्तव्यम् यत्नेऽपि सर्वथाऽलाभे माहेशानां महेश्वर | विष्टरेषु निधायैव घण्टां वा भस्मघुण्टिकाम् | पादार्चनादिकं सर्वमाराधनमथाचरेत् || ५० || प्. ८५) भोज्यं च धेनवे दद्याद् विप्रेभ्यश्चैव दक्षिणाम् | कुर्वन्नेवं स लभत आराधनफलं महत् || ५१ || पित्राराधनफलकथनम् विधिनाऽनेन कुरुते पित्रोराराधनं तु यः | आयुः श्रियं प्रजां लब्ध्वा शिवलोके महीयते || ५२ || अननुष्ठाने दोषः नास्तिक्यादथवाऽलस्याद् यस्त्वेवं नानुतिष्ठति | काकयोनिशतं गत्वा स हि श्वा चाभिजायते || ५३ || इति श्रीमकुटागमे चर्यापादे प्रत्याब्दिकविधिकथनं नाम नवमः पटलः || ९ || दशमः पटलः रुद्र उवाच अशेषजगदाधार निराधार कृपानिधे | ममास्ति विशयः कश्चिदाशौचविषये विभो || १ || शाम्भवव्रतशुद्धेषु कथमाशौचसंगतिः | भवद्भावनया त्यक्तगात्रेषु व्रतसेविषु || २ || अमृतेषु कथं नु स्यात् तनोराशौचसंगमः | एनं मे संशयं छिन्धि सर्वज्ञानैकसागर || ३ || परशिव उवाच साधु पृष्टं त्वया वत्स सद्भक्तानुजिघृक्षुणा | तद् गोप्यमपि वक्ष्यामि सावधानमनाः शृणु || ४ || शाम्भवव्रतनिष्ठानामप्याशौचावाप्तिः शाम्भवव्रतशुद्धानां मत्सेवाभिरतात्मनाम् | मुक्तिभाजां तनुत्यागहेतुकाशौचसंगमः | यद्यप्यसम्भाव्य एव प्राणिदोषाप्रकाशनात् | ५ || तथापि तेषां संसारसम्बद्धतनुयोगिनाम् | देहोत्पत्तिविनाशोत्थमाशौचमिह विद्यते | यतीनां तद्धि संसारयोगाभावान्न युज्यत् || ६ || तस्मात् संसारसम्पर्को हेतुराशौचसंगतेः | तद्योगादस्ति व्रतिनामाशौचमिति निश्चिनु || ७ || आशौचे विद्यमानेऽपि नान्तरायोऽर्चने आशौचे विद्यमानेऽपि नान्तरायोऽर्चनस्य तु | मदर्चा विघ्नविच्छेत्री दीक्षासामर्थ्ययोगतः || ८ || नैमित्तिकानां नित्यानामन्येषां कर्मणां पुनः | आशौचमूलसंकोचस्तुल्य एव ह्यदीक्षितैः || ९ || आत्मन्यारोपिता येन ह्यग्नयः सोमपीथिना | उत्क्रान्तेरेव तस्य स्यादाशौचं ज्ञातिषु ध्रुवम् || १० || आशौचद्वैविध्यं चातुर्विध्यं च जातकं मृतकं चेति ह्याशौचं द्विविधं स्मृतम् | तच्चतुर्धाऽल्पमधिकमपूर्णं पूर्णमित्यपि || ११ || अल्पकालिकमल्पं स्यादधिकं कालतोऽधिकम् | अपूर्णं स्यात् त्रिरात्रादि दशाहादि तु पूर्णकम् || १२ || ज्ञातीनां दम्पत्योः सोदराणां वर्णानां चाशौचकालः स्रावे मातुस्त्रिरात्रं स्याज्ज्ञातीनां तन्न विद्यते | पाते मातुर्माससंख्यं पित्रादीनां दिनत्रयम् || १३ || प्. ८९) दशाहमुक्तं विप्रस्य द्वादशाहं नृपस्य तु | विशः पञ्चदशाहं तु मासः शूद्रस्य सम्मतम् || १४ || दशाहे समतिक्रान्ते जाताशौचं न विद्यते | पुत्रस्य जन्म श्रुत्वा तु जलमाप्लुत्य शुद्ध्यति || १५ || जाते मृते तु ज्ञातीनां सद्यः शुद्धिर्विधीयते | दशाहेनैव दम्पत्योः सोदराणां तथैव च || १६ || अजातदन्तादिषु मृतेष्वाशौचकालः शिशावजातदन्ते तु सद्यः शौचं विधीयते | बाले त्वकृतचौले तु स्यादहोरात्रमात्रकम् || १७ || बालस्योपनयात् पूर्वं मातापित्रोस्त्रिरात्रकम् | मरणे तूपनीतानामाशौचं पूर्णमीरितम् || १८ || ज्ञातीनां स्याद्दशाहं तु सोदकानां त्रिरात्रकम् | सगोत्राणां स्नानमात्रं तदन्येषां न विद्यते || १९ || प्. ९०) मातुलादिषु मृतेष्वाशौचविधिः मृतौ तु मातुलादीनां त्रिरात्रमिति चोदितम् | मरणे बान्धवानां तु पक्षिण्याशौचमीरितम् || २० || आ त्रिमासात् त्रिरात्रं स्यादा षण्मासात्तु पक्षिणी | आ वत्सरादहोरात्रं ततः स्नानेन शुद्ध्यति || २१ || बहूनामाशौचानां तन्त्रेण शुद्धिः बहूनामपि सम्प्राप्तौ तन्त्रेणैव हि शुद्ध्यति | समानमल्पकं वाऽपि प्रथमेन समापयेत् || २२ || मरणाशौचस्य प्राधान्यम् जातके मृतकं वाऽपि मृतके वाऽपि जातकम् | यदि स्यान्मृतकस्यैव प्राधान्यं परिकीर्तितम् | पित्रोस्तु मरणाशौचमन्याशौचस्य बाधकम् || २३ || प्. ९१) पितुर्दशाहमध्ये तु माता यदि मृता भवेत् | पितुः पूर्णं तु निर्वर्त्य मातुर्गृह्णीत पक्षिणीम् || २४ || शवानुगमे शुद्धिविधिः अनुगम्य शवं विप्रो ज्ञातेरन्यस्य वा पुनः | स्नात्वा च भस्मनोद्धूल्य मां दृष्ट्वैव विशुद्ध्यति || २५ || नैष्ठिकादीनामाशौचं नास्ति नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् | न जन्ममरणोद्भूतमाशौचमिह विद्यते || २६ || सद्यः शौचविधानम् दाने विवाहे यज्ञे च संग्रामे देशविप्लवे | आपद्यपि च कष्टायां सद्यःशौचं विधीयते || २७ || प्. ९२) सन्ध्या पूजा च कदापि न त्याज्या सूतके मृतके चैव सन्ध्यां पूजां न सन्त्यजेत् | उपांशुसन्ध्यां पूजां तु कुर्यात् त्रिकरणैरपि || २८ || ग्रन्थोपसंहारः शाम्भवव्रतीनां धर्माः संक्षेपेण मयेरिताः | श्रद्धावन्तो विमुच्यन्ते क्लिश्नन्त्यन्ये विमोहिताः || २९ || मकुटं धर्मशास्त्रं तु मदीयं मकुटायितम् | पठनीयं प्रयत्नेन मत्प्रसादाभिकाङ्क्षिणा || ३० || इति श्रीमकुटागमे उत्तरभागे चर्यापादे आशौचविधिकथनं नाम दशमः पटलः || १० || समाप्तश्चायं मकुटागमः ########### END OF FILE #######